(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
3.216. अध्यायः 216
Mahabharata - Vana Parva - Chapter Topics
धर्मव्याधेन कौशिकंप्रतिसत्वादिगुणत्रयगुणनिरूपणपूर्वकमध्यात्मकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-216-0x(2498)(24435)
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत।
ब्राह्मणः स पुन सूक्ष्मं पप्रच्छ सुसमाहितः ॥ 3-216-1(24436)
वृत्त्वस्य रजसश्चैव तमसश्च यथातथम्।
वृणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥ 3-216-2(24437)
व्याध उवाच। 3-216-2x(2499)
दृन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि।
एतान्गुणान्पृथक्त्वेन निबोध गदतो मम ॥ 3-216-3(24438)
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम्।
प्रकाशबहुलत्वाच्च सत्वं ज्याय इहोच्यते ॥ 3-216-4(24439)
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः।
दृर्हृपीकस्तमोध्यस्तः सक्रोधस्तामसोऽलसः ॥ 3-216-5(24440)
सुवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनमूयकः।
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥ 3-216-6(24441)
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः।
अक्रोधनो नरो धीमान्दान्तश्चैवस सात्विकः ॥ 3-216-7(24442)
सात्विकस्त्वथ संबुद्धो लोकवृत्तैर्न लिप्यते।
यदा बुध्यति बोध्धव्यं लोकवृत्तं जुगुप्सते ॥ 3-216-8(24443)
वैराग्यस् च रूपं तु पूर्वमेव प्रवर्तते।
मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत् ॥ 3-216-9(24444)
ततोऽस् सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम्।
न चास्यासंयमो नाम क्वचिद्भवति कश्चन ॥ 3-216-10(24445)
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः।
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च ॥ 3-216-11(24446)
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते।
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि ॥ 3-216-12(24447)
ब्राह्मण उवाच। 3-216-13x(2500)
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत्।
अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥ 3-216-13(24448)
मार्कण्डेय उवाच। 3-216-14x(2501)
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर।
व्याधस्तु कथयामास ब्राह्मणाय महात्मने ॥ 3-216-14(24449)
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्।
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ॥ 3-216-15(24450)
भूं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम्।
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे ॥ 3-216-16(24451)
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः।
मनोबुद्धिरहंकारो भूतानां विषयश्च सः ॥ 3-216-17(24452)
`अव्यक्तं सस्वसंज्ञं च जीवः कालः स चैव हि।
प्रकृतिः पुरुषश्चैव प्राण एव द्विजोत्तम ॥ 3-216-18(24453)
जागर्ति स्वप्नकाले च स्वप्ने स्वप्नायते च सः।
जाग्रत्सु बलमाधत्ते चेष्टत्सु चेष्टयत्यपि ॥ 3-216-19(24454)
तस्मिन्निरुद्दे विप्रेन्द्र मृत इत्यभिधीयते।
त्यक्त्वा शरीरं भूतात्मा पुनरन्यत्प्रपद्यते ॥ 3-216-20(24455)
एष त्वग्निरपानन प्राणेन परिपाल्यते।
पृष्ठतस्तु समानन स्वांस्वां गतिमुपाश्रितः ॥ 3-216-21(24456)
वस्तुमूले गुदे चैव पावकं समुपाश्रितः।
वहन्मूत्रं पुरीषंवाऽप्यपानः परिवर्तते ॥ 3-216-22(24457)
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते।
उदान इति तं प्राहुरध्यात्मविदुषो जनाः ॥ 3-216-23(24458)
सन्धौसन्धौ संनिविष्टः सर्वेष्वपि तथाऽनिलः।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्ते ॥ 3-216-24(24459)
धातुष्वग्निस्तु विततः स तु वायुसमीरितः।
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति ॥ 3-216-25(24460)
प्राणानां संनिपातात्तु सन्निपातः प्रजायते।
सोष्मा सोग्निरितिज्ञेयो योऽन्नं पचतिदेहिनां ॥ 3-216-26(24461)
अपानोदानयोर्मध्ये प्राणन्यानौ समाहितौ।
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥ 3-216-27(24462)
अस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः।
स्रोतांशि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् ॥ 3-216-28(24463)
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते।
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥ 3-216-29(24464)
पक्वाशयस्त्वधोनाभ्या ऊर्ध्वमामाशयः स्थितः।
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ॥ 3-216-30(24465)
प्रवृत्ता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा।
वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ॥ 3-216-31(24466)
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम्।
जितक्लमासनो धीरो मूर्धन्यात्मानमादत् ॥ 3-216-32(24467)
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु।
`तौ तावदग्निसहितौ विद्धि वै प्राणमात्मनि' ॥ 3-216-33(24468)
एकादशविकारात्मा कलासंभारसंभृतः।
मूर्तिमन्तं हि तं विद्धि नित्यं कर्माजेतात्मकम्।
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः ॥ 3-216-34(24469)
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकं ॥ 3-216-35(24470)
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे।
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकं ॥ 3-216-36(24471)
जीवात्मकं विजानीहि रजः सत्वं तमस्तथा।
जीवमात्मगुणं विद्धि तथाऽऽत्मानं परात्मकं ॥ 3-216-37(24472)
अचेतनं जीवगुणं वदन्ति
सचेष्टते चेष्टयते च सर्वम्।
ततः परं क्षेत्रविदो वदन्ति
प्राकल्पयद्यो भुवनानि सप्त ॥ 3-216-38(24473)
एष सर्वेषु भूतेषु भूतात्मा न प्रकाशते।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ॥ 3-216-39(24474)
चित्तस्य हि प्रसादेन हनति कर्म शुभाशुभम्।
प्रसन्नात्मात्मनि स्थित्वा सुखमनन्त्यमश्नुते ॥ 3-216-40(24475)
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्।
`सुखदुःखे हि संत्यज्य निर्द्वन्द्वो निष्परिग्रहः'।
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ॥ 3-216-41(24476)
पूर्वरात्रेऽपरे चैव युञ्जानः सततं मनः।
लध्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ 3-216-42(24477)
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति।
दृष्ट्वाऽऽत्मानं निरात्मानं स तदा विप्रमुच्यते ॥ 3-216-43(24478)
सर्वोपायैस्तु लोभस् क्रोधस्य च विनिग्रहः।
एतत्पवित्रं यञ्ज्ञानं तपो वै संक्रमो मतः ॥ 3-216-44(24479)
नित्यं क्रोधात्तपो रक्षेन्छ्रियं रक्षेच्च मत्सरात्।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥ 3-216-45(24480)
आनृशंस्यं परो धर्मः क्षमा च परमं बलम्।
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतव्रतम् ॥ 3-216-46(24481)
सत्यस् वचनं श्रेयः सत्यं ज्ञानं हितं भवेत्।
यद्बूतहितमत्यन्तं तद्वै सत्यं परं मतम् ॥ 3-216-47(24482)
यस् सर्वे समारम्भा निराशीर्बन्धनाः सदा।
त्यागे यस् हुतं सर्वं स त्यागी स च बुद्धिमान् ॥ 3-216-48(24483)
यदा न गुरुतां चैनं च्यावयेदुपपादयन्।
तं विद्याद्ब्राह्मणो योगमयोगं योगसंज्ञितम् ॥ 3-216-49(24484)
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत्।
नेदं जीवितमासाद्यवैरं कुर्वीत केनचित् ॥ 3-216-50(24485)
आकिंचन्यं सुसंतोषो निराशित्वमचापलम्।
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ॥ 3-216-51(24486)
परिग्रहं परित्यज्य भवेद्बुद्ध्या यतव्रतः।
अशोकं स्थानमाश्रित् निश्चलं प्रेत्य चेह च ॥ 3-216-52(24487)
तपोनित्येन दान्तेन मुनिना संयतात्मना।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥ 3-216-53(24488)
गुणागुणमनासङ्गमेककार्यमनन्तरम्।
एतत्तद्ब्रह्मणो वृत्तमाहुरेकपदं सुखम् ॥ 3-216-54(24489)
परित्यजति यो दुःखं सुखं चाप्युभयं नरः।
ब्रह्म प्राप्नोति सोत्यन्तमासङ्गं च न गच्छति ॥ 3-216-55(24490)
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 3-216-56(24491)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-216-10 नचास्य संशयो नाम इति झ. पाठः ॥ 3-216-27 समानोदानयोर्मध्येप्राणपानौ समाहितौ इति झ. पाठः ॥ 3-216-45 धर्मे रक्षेच्च मत्सरात् इति झ. पाठः ॥ 3-216-50 मैत्रं मित्रभावस्तदेवायनं मार्गस्तद्गतश्चरेत् ॥
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.